07.110
धृतराष्ट्र उवाच॥
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्। यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे ॥७-११०-१॥
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे। न च कर्णसमं योधं लोके पश्यामि कञ्चन ॥ इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥७-११०-२॥
कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः। इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥७-११०-३॥
वसुषेणसहायं मां नालं देवापि संयुगे। किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः ॥७-११०-४॥
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम्। युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत् ॥७-११०-५॥
अहो दुर्मुखमेवैकं युद्धानामविशारदम्। प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ॥७-११०-६॥
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः। न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ॥७-११०-७॥
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्। जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥७-११०-८॥
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्। बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥७-११०-९॥
कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः। भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥७-११०-१०॥
योऽजयत्समरे कर्णं पुरंदर इवासुरम्। न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥७-११०-११॥
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम्। भीमो धनञ्जयान्वेषी कस्तमर्छेज्जिजीविषुः ॥७-११०-१२॥
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः। उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः ॥७-११०-१३॥
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः। न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ॥७-११०-१४॥
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः। ये भीमसेनं सङ्क्रुद्धमभ्यधावन्विमोहिताः ॥७-११०-१५॥
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्। शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥७-११०-१६॥
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम्। दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥७-११०-१७॥
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः। कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥७-११०-१८॥
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्। प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति सञ्जय ॥७-११०-१९॥
दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान्। आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः ॥७-११०-२०॥
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्। भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥७-११०-२१॥
वडवामुखमध्यस्थो मुच्येतापि हि मानवः। न भीममुखसम्प्राप्तो मुच्येतेति मतिर्मम ॥७-११०-२२॥
न पाण्डवा न पाञ्चाला न च केशवसात्यकी। जानन्ति युधि संरब्धा जीवितं परिरक्षितुम् ॥७-११०-२३॥
सञ्जय उवाच॥
यत्संशोचसि कौरव्य वर्तमाने जनक्षये। त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥७-११०-२४॥
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः। उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥७-११०-२५॥
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्। तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥७-११०-२६॥
यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम्। अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत ॥७-११०-२७॥
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्। नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष ॥७-११०-२८॥
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः। पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन् ॥७-११०-२९॥
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्। दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥७-११०-३०॥
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः। प्रतिजग्राह समरे भीमसेनो हसन्निव ॥७-११०-३१॥
तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान्। अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥७-११०-३२॥
विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान्। तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥७-११०-३३॥
कुरवस्तु ततः कर्णं परिवार्य समन्ततः। अवाकिरन्भीमसेनं शरैः संनतपर्वभिः ॥७-११०-३४॥
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान्। ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥७-११०-३५॥
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः। चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥७-११०-३६॥
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्। संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥७-११०-३७॥
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः। सूतपुत्रो महाराज भीमसेनमवैक्षत ॥७-११०-३८॥
तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः। विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥७-११०-३९॥