07.111
सञ्जय उवाच॥
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्। क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥७-१११-१॥
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा। भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् ॥७-१११-२॥
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव। पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥७-१११-३॥
अवहासं तु तं पार्थो नामृष्यत वृकोदरः। ततो विव्याध राधेयं शतेन नतपर्वणाम् ॥७-१११-४॥
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः। धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥७-१११-५॥
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः। इषुभिश्छादयामास भीमसेनं समन्ततः ॥७-१११-६॥
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्। प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥७-१११-७॥
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः। तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥७-१११-८॥
अवारोहद्रथात्तस्मादथ कर्णो महारथः। गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ॥७-१११-९॥
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः। शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥७-१११-१०॥
ततो बाणसहस्राणि प्रेषयामास पाण्डवः। सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥७-१११-११॥
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे। कवचं भीमसेनस्य पातयामास सायकैः ॥७-१११-१२॥
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ॥७-१११-१३॥
ततो भीमो महाराज नवभिर्नतपर्वणाम्। रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥७-१११-१४॥
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्। अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥७-१११-१५॥
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम्। भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ॥ त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥७-१११-१६॥
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम्। अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ॥७-१११-१७॥
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः। चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥७-१११-१८॥
आगच्छतस्तान्सहसा भीमो राजन्महारथः। साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ॥ ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥७-१११-१९॥
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्। अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥७-१११-२०॥
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः। अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥७-१११-२१॥
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः। व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥७-१११-२२॥
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः। व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥७-१११-२३॥
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ। शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥७-१११-२४॥
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ। विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥७-१११-२५॥
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्। शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥७-१११-२६॥
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः। तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥७-१११-२७॥
प्रच्छादयन्तौ समरे शरजालैः परस्परम्। रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥७-१११-२८॥
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु। व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ॥७-१११-२९॥
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः। व्यरोचत रणे भीमः सविद्युदिव तोयदः ॥७-१११-३०॥
स चापघोषस्तनितः शरधाराम्बुदो महान्। भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥७-१११-३१॥
ततः शरसहस्रेण धनुर्मुक्तेन भारत। पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥७-१११-३२॥
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम्। सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥७-१११-३३॥
स नन्दयन्रणे पार्थं केशवं च यशस्विनम्। सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥७-१११-३४॥
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः। पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥७-१११-३५॥