07.112
सञ्जय उवाच॥
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम्। नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥७-११२-१॥
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात्। तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ॥७-११२-२॥
भीमसेनेन निहतान्विमना दुःखितोऽभवत्। निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥७-११२-३॥
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः। बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ॥७-११२-४॥
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ। कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥७-११२-५॥
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः। विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥७-११२-६॥
कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः। रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥७-११२-७॥
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात्। प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ॥७-११२-८॥
खं पूरयन्महावेगान्खगमान्खगवाससः। सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥७-११२-९॥
तमन्तकमिवायस्तमापतन्तं वृकोदरः। त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ॥७-११२-१०॥
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः। महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ॥७-११२-११॥
ततो विधम्याधिरथेः शरजालानि पाण्डवः। विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ॥७-११२-१२॥
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः। तथैव कर्णं समरे छादयामास पाण्डवः ॥७-११२-१३॥
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत। अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः ॥७-११२-१४॥
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः। उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥७-११२-१५॥
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः। साधु साध्विति वेगेन सिंहनादमथानदन् ॥७-११२-१६॥
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे। अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥७-११२-१७॥
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः। कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥७-११२-१८॥
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः। ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥७-११२-१९॥
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष। भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥७-११२-२०॥
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥७-११२-२१॥
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः। प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥७-११२-२२॥
ततो वामेन कौन्तेयः पीडयित्वा शरासनम्। मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥७-११२-२३॥
मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान्। तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥७-११२-२४॥
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव। भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥७-११२-२५॥
ते क्षिप्ता भीमसेनेन शरा भारत भारतान्। विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥७-११२-२६॥
तेषां विदार्य चेतांसि शरा हेमविभूषिताः। व्यराजन्त महाराज सुपर्णा इव खेचराः ॥७-११२-२७॥
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः। पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥७-११२-२८॥
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ। गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥७-११२-२९॥
शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः। चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥७-११२-३०॥
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः। सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥७-११२-३१॥
स रवस्तस्य शूरस्य धर्मराजस्य भारत। आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥७-११२-३२॥
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः। बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ॥७-११२-३३॥
ततो हृष्टो महाराज वादित्राणां महास्वनैः। भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ॥७-११२-३४॥
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम्। हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे ॥७-११२-३५॥
एकत्रिंशन्महाराज पुत्रांस्तव महारथान्। हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥७-११२-३६॥
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः। इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ॥७-११२-३७॥
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव। यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥७-११२-३८॥
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते। कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ॥७-११२-३९॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः। पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥७-११२-४०॥
यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम्। पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ॥७-११२-४१॥
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम्। विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ॥७-११२-४२॥
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि। सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ॥ हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ॥७-११२-४३॥
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान्। यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ॥ पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ॥७-११२-४४॥
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्। सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥७-११२-४५॥