07.113
धृतराष्ट्र उवाच॥
महानपनयः सूत ममैवात्र विशेषतः। स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ॥७-११३-१॥
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्। इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय ॥७-११३-२॥
यथा त्वेष क्षयो वृत्तो ममापनयसम्भवः। वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय ॥७-११३-३॥
सञ्जय उवाच॥
कर्णभीमौ महाराज पराक्रान्तौ महाहवे। बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥७-११३-४॥
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः। विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥७-११३-५॥
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः। आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥७-११३-६॥
तयोः शरैर्महाराज सम्पतद्भिः समन्ततः। बभूव तव सैन्यानां सङ्क्षोभः सागरोपमः ॥७-११३-७॥
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम। अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥७-११३-८॥
वारणैः पतितै राजन्वाजिभिश्च नरैः सह। अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥७-११३-९॥
ते वध्यमानाः समरे भीमचापच्युतैः शरैः। प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥७-११३-१०॥
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्। प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥७-११३-११॥
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः। उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥७-११३-१२॥
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः। यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥७-११३-१३॥
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः। शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥७-११३-१४॥
ततः प्रावर्तत नदी घोररूपा महाहवे। बभूव च विशेषेण भीरूणां भयवर्धिनी ॥७-११३-१५॥
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा। संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥७-११३-१६॥
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः। स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥७-११३-१७॥
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः। सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥७-११३-१८॥
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः। प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वधैः ॥७-११३-१९॥
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः। वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ॥ शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥७-११३-२०॥
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः। तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥७-११३-२१॥
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि। गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥७-११३-२२॥
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुन्धरा। पतितैरपविद्धैश्च सम्बभौ द्यौरिव ग्रहैः ॥७-११३-२३॥
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम्। दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥७-११३-२४॥
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे। आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ॥ निपातितध्वजरथं हतवाजिनरद्विपम् ॥७-११३-२५॥
गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नडवनं यथा। तथाभूतं महत्सैन्यमासीद्भारत संयुगे ॥ विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥७-११३-२६॥