Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.115
धृतराष्ट्र उवाच॥
अहन्यहनि मे दीप्तं यशः पतति सञ्जय। हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥७-११५-१॥
धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम्। रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ॥७-११५-२॥
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः। सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥७-११५-३॥
तदा प्रभृति मा शोको दहत्यग्निरिवाशयम्। ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ॥७-११५-४॥
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः। चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः ॥७-११५-५॥
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः। युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः ॥७-११५-६॥
यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत्। एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ॥७-११५-७॥
तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम्। धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ॥७-११५-८॥
सञ्जय उवाच॥
तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम्। समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन ॥७-११५-९॥
नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः। निघ्नन्नमित्रान्धनुषा दृढेन; सङ्कम्पयंस्तव पुत्रस्य सेनाम् ॥७-११५-१०॥
तं यान्तमश्वै रजतप्रकाशै; रायोधने नरवीरं चरन्तम्। नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम् ॥७-११५-११॥
अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी। अलम्बुसः सात्यकिं माधवाग्र्य; मवारयद्राजवरोऽभिपत्य ॥७-११५-१२॥
तयोरभूद्भारत सम्प्रहार; स्तथागतो नैव बभूव कश्चित्। प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे ॥७-११५-१३॥
अविध्यदेनं दशभिः पृषत्कै; रलम्बुसो राजवरः प्रसह्य। अनागतानेव तु तान्पृषत्कां; श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥७-११५-१४॥
पुनः स बाणैस्त्रिभिरग्निकल्पै; राकर्णपूर्णैर्निशितैः सुपुङ्खैः। विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम् ॥७-११५-१५॥
तैः कायमस्याग्न्यनिलप्रभावै; र्विदार्य बाणैरपरैर्ज्वलद्भिः। आजघ्निवांस्तान्रजतप्रकाशा; नश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥७-११५-१६॥
तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः। अलम्बुसस्योत्तमवेगवद्भि; र्हयांश्चतुर्भिर्निजघान बाणैः ॥७-११५-१७॥
अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन। सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥७-११५-१८॥
निहत्य तं पार्थिवपुत्रपौत्रं; सङ्ख्ये मधूनामृषभः प्रमाथी। ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य ॥७-११५-१९॥
अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम्। घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान् ॥७-११५-२०॥
ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः। सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः ॥७-११५-२१॥
अथात्मजास्ते सहिताभिपेतु; रन्ये च योधास्त्वरितास्त्वदीयाः। कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ ॥७-११५-२२॥
ते सर्वतः सम्परिवार्य सङ्ख्ये; शैनेयमाजघ्नुरनीकसाहाः। स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः ॥७-११५-२३॥
निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः। दुःशासनस्यापि जघान वाहा; नुद्यम्य बाणासनमाजमीढ ॥७-११५-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.