07.117
सञ्जय उवाच॥
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम्। क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥७-११७-१॥
तमब्रवीन्महाबाहुः कौरव्यः शिनिपुङ्गवम्। अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ॥७-११७-२॥
चिराभिलषितं काममद्य प्राप्स्यामि संयुगे। न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥७-११७-३॥
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्। नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥७-११७-४॥
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले। द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥७-११७-५॥
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया। सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥७-११७-६॥
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः। त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥७-११७-७॥
चिराभिलषितो ह्यद्य त्वया सह समागमः। पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥७-११७-८॥
अद्य युद्धं महाघोरं तव दास्यामि सात्वत। ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥७-११७-९॥
अद्य संयमनीं याता मया त्वं निहतो रणे। यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै ॥७-११७-१०॥
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव। हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ॥७-११७-११॥
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः। तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥७-११७-१२॥
चक्षुर्विषयसम्प्राप्तो न त्वं माधव मोक्ष्यसे। सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥७-११७-१३॥
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव। कौरवेय न सन्त्रासो विद्यते मम संयुगे ॥७-११७-१४॥
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम्। समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ॥७-११७-१५॥
किं मृषोक्तेन बहुना कर्मणा तु समाचर। शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ॥७-११७-१६॥
श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते। चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ॥७-११७-१७॥
त्वरते मे मतिस्तात त्वयि युद्धाभिकाङ्क्षिणि। नाहत्वा संनिवर्तिष्ये त्वामद्य पुरुषाधम ॥७-११७-१८॥
अन्योन्यं तौ तदा वाग्भिस्तक्षन्तौ नरपुङ्गवौ। जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ॥७-११७-१९॥
समेतौ तौ नरव्याघ्रौ शुष्मिणौ स्पर्धिनौ रणे। द्विरदाविव सङ्क्रुद्धौ वाशितार्थे मदोत्कटौ ॥७-११७-२०॥
भूरिश्रवाः सात्यकिश्च ववर्षतुररिंदमौ। शरवर्षाणि भीमानि मेघाविव परस्परम् ॥७-११७-२१॥
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः। जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥७-११७-२२॥
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्। मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवम् ॥७-११७-२३॥
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशां पते। अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥७-११७-२४॥
तौ पृथक्षरवर्षाभ्यामवर्षेतां परस्परम्। उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ॥७-११७-२५॥
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ। रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥७-११७-२६॥
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम्। व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥७-११७-२७॥
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ। परस्परमयुध्येतां वारणाविव यूथपौ ॥७-११७-२८॥
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ। जिगीषन्तौ परं स्थानमन्योन्यमभिजघ्नतुः ॥७-११७-२९॥
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्। हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥७-११७-३०॥
सम्प्रैक्षन्त जनास्तत्र युध्यमानौ युधां पती। यूथपौ वाशिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥७-११७-३१॥
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च। विरथावसियुद्धाय समेयातां महारणे ॥७-११७-३२॥
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे। विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥७-११७-३३॥
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः। मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ॥७-११७-३४॥
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ। रणे रणोत्कटौ राजन्नन्योन्यं पर्यकर्षताम् ॥७-११७-३५॥
मुहूर्तमिव राजेन्द्र परिकृष्य परस्परम्। पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥७-११७-३६॥
असिभ्यां चर्मणी शुभ्रे विपुले च शरावरे। निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥७-११७-३७॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जेतामायसैः परिघैरिव ॥७-११७-३८॥
तयोरासन्भुजाघाता निग्रहप्रग्रहौ तथा। शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥७-११७-३९॥
तयोर्नृवरयो राजन्समरे युध्यमानयोः। भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥७-११७-४०॥
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ। युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ॥७-११७-४१॥
क्षीणायुधे सात्वते युध्यमाने; ततोऽब्रवीदर्जुनं वासुदेवः। पश्यस्वैनं विरथं युध्यमानं; रणे केतुं सर्वधनुर्धराणाम् ॥७-११७-४२॥
प्रविष्टो भारतीं सेनां तव पाण्डव पृष्ठतः। योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥७-११७-४३॥
परिश्रान्तो युधां श्रेष्ठः सम्प्राप्तो भूरिदक्षिणम्। युद्धकाङ्क्षिणमायान्तं नैतत्सममिवार्जुन ॥७-११७-४४॥
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदम्। उद्यम्य न्यहनद्राजन्मत्तो मत्तमिव द्विपम् ॥७-११७-४५॥
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः। केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः ॥७-११७-४६॥
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत। पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥७-११७-४७॥
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्। तवान्तेवासिनं शूरं पालयार्जुन सात्यकिम् ॥७-११७-४८॥
न वशं यज्ञशीलस्य गच्छेदेष वरारिहन्। त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो ॥७-११७-४९॥
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः। पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् ॥ महाद्विपेनेव वने मत्तेन हरियूथपम् ॥७-११७-५०॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ। यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥७-११७-५१॥
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः। व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥७-११७-५२॥
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे। मूर्धजेषु निजग्राह पदा चोरस्यताडयत् ॥७-११७-५३॥
तथा तु परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे। वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत ॥७-११७-५४॥
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्। तव शिष्यं महाबाहो धनुष्यनवरं त्वया ॥७-११७-५५॥
असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे। विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥७-११७-५६॥
एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः। मनसा पूजयामास भूरिश्रवसमाहवे ॥७-११७-५७॥
विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे। संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः ॥७-११७-५८॥
प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम्। महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति ॥७-११७-५९॥
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम्। वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ॥७-११७-६०॥
सैन्धवासक्तदृष्टित्वान्नैनं पश्यामि माधव। एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥७-११७-६१॥
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः। सखड्गं यज्ञशीलस्य पत्रिणा बाहुमच्छिनत् ॥७-११७-६२॥