07.121
सञ्जय उवाच॥
स रणे व्यचरत्पार्थः प्रेक्षणीयो धनञ्जयः। युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन् ॥७-१२१-१॥
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे। न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥७-१२१-२॥
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः। सङ्ग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे ॥७-१२१-३॥
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः। दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥७-१२१-४॥
स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः। मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥७-१२१-५॥
विसृजन्दिक्षु सर्वासु शरानसितसारथिः। स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ॥७-१२१-६॥
भ्रमन्त इव शूरस्य शरव्राता महात्मनः। अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥७-१२१-७॥
आददानं महेष्वासं संदधानं च पाण्डवम्। विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा ॥७-१२१-८॥
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे। आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥ विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥७-१२१-९॥
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना। न चक्षमे सुसङ्क्रुद्धस्तोत्त्रार्दित इव द्विपः ॥७-१२१-१०॥
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्। आशीविषसमप्रख्यान्कर्मारपरिमार्जितान् ॥ मुमोच निशितान्सङ्ख्ये सायकान्सव्यसाचिनि ॥७-१२१-११॥
त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम्। अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ॥७-१२१-१२॥
स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान्। युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ॥ सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ॥७-१२१-१३॥
स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः। वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥७-१२१-१४॥
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे। अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥७-१२१-१५॥
धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः। अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ॥ शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति ॥७-१२१-१६॥
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः। स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥७-१२१-१७॥
जयद्रथममित्रघ्नं तं चोवाच ततो नृपम्। अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना ॥७-१२१-१८॥
तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः। गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ॥ क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥७-१२१-१९॥
शत्रुभिर्युध्यमानस्य सङ्ग्रामे त्वस्य धन्विनः। शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुर्नालक्षितो भुवि ॥७-१२१-२०॥
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम। ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः ॥७-१२१-२१॥
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम्। धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥ तस्यापि शतधा मूर्धा फलिष्यति न संशयः ॥७-१२१-२२॥
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्। वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः ॥७-१२१-२३॥
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्। समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥७-१२१-२४॥
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे। दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥७-१२१-२५॥
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज। उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत ॥७-१२१-२६॥
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले। तवापि शतधा मूर्धा फलिष्यति न संशयः ॥७-१२१-२७॥
यथा चैतन्न जानीयात्स राजा पृथिवीपतिः। तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥७-१२१-२८॥
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन। समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥७-१२१-२९॥
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्। इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥७-१२१-३०॥
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम्। विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः ॥७-१२१-३१॥
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः। शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत् ॥७-१२१-३२॥
अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनञ्जयः। दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥७-१२१-३३॥
शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः। समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः ॥७-१२१-३४॥
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः। सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥७-१२१-३५॥
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्। सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥७-१२१-३६॥
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्। वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम ॥७-१२१-३७॥
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः। उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥७-१२१-३८॥
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम्। गते तस्यापि शतधा मूर्धागच्छदरिंदम ॥७-१२१-३९॥
ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम्। वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥७-१२१-४०॥
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्। पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम् ॥७-१२१-४१॥
भीमसेनोऽपि सङ्ग्रामे बोधयन्निव पाण्डवम्। सिंहनादेन महता पूरयामास रोदसी ॥७-१२१-४२॥
तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः। सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥७-१२१-४३॥
ततो वादित्रघोषेण स्वान्योधानभिहर्षयन्। अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥७-१२१-४४॥
ततः प्रववृते राजन्नस्तं गच्छति भास्करे। द्रोणस्य सोमकैः सार्धं सङ्ग्रामो लोमहर्षणः ॥७-१२१-४५॥
ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः। सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥७-१२१-४६॥
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च। अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः ॥७-१२१-४७॥
अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान्। अयोधयन्महाराज हत्वा सैन्धवकं नृपम् ॥७-१२१-४८॥
स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात्। यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः ॥७-१२१-४९॥