Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
08.018
सञ्जय उवाच॥
युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम्। उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥८-१८-१॥
युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा। उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ॥८-१८-२॥
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे। क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥८-१८-३॥
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्। अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥८-१८-४॥
शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ। सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ॥८-१८-५॥
उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः। अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥८-१८-६॥
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः। पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ॥८-१८-७॥
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः। उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥८-१८-८॥
उलूकस्तस्य भल्लेन तैलधौतेन मारिष। शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ॥८-१८-९॥
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः। सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥८-१८-१०॥
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ। पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥८-१८-११॥
शतानीकं महाराज श्रुतकर्मा सुतस्तव। व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमम् ॥८-१८-१२॥
हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः। गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ॥८-१८-१३॥
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्। पपात धरणीं तूर्णं दारयन्तीव भारत ॥८-१८-१४॥
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ। अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ॥८-१८-१५॥
पुत्रस्तु तव सम्भ्रान्तो विवित्सो रथमाविशत्। शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥८-१८-१६॥
सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः। नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ॥८-१८-१७॥
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्। शरैरनेकसाहस्रैश्छादयामास भारत ॥८-१८-१८॥
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः। लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥८-१८-१९॥
निवार्य समरे चापि शरांस्तान्निशितैः शरैः। आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ॥८-१८-२०॥
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः। स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ॥८-१८-२१॥
हताश्वो विरथश्चैव छिन्नधन्वा च मारिष। धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥ व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ॥८-१८-२२॥
छादयामासुरथ ते तव स्यालस्य तं रथम्। पतङ्गानामिव व्राताः शरव्राता महारथम् ॥८-१८-२३॥
रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः। प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ॥८-१८-२४॥
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः। सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ॥ रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ॥८-१८-२५॥
तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः। व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ॥८-१८-२६॥
स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन्। वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ॥८-१८-२७॥
भ्राम्यमाणं ततस्तं तु विमलाम्ब्बरवर्चसम्। कालोपमं ततो मेने सुतसोमस्य धीमतः ॥८-१८-२८॥
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः। चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ॥८-१८-२९॥
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्। तानापतत एवाशु चिच्छेद परमासिना ॥८-१८-३०॥
ततः क्रुद्धो महाराज सौबलः परवीरहा। प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ॥८-१८-३१॥
चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च। दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ॥८-१८-३२॥
तस्य सञ्चरतो राजन्मण्डलावर्तने तदा। क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥८-१८-३३॥
स च्छिन्नः सहसा भूमौ निपपात महानसिः। अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ॥८-१८-३४॥
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। प्राविध्यत ततः शेषं सुतसोमो महारथः ॥८-१८-३५॥
स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः। पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ॥ सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ॥८-१८-३६॥
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम्। अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ॥८-१८-३७॥
तत्र नादो महानासीत्पाण्डवानां विशां पते। सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ॥८-१८-३८॥
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च। द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥८-१८-३९॥
यथा दैत्यचमूं राजन्देवराजो ममर्द ह। तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥८-१८-४०॥
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे। यथा दृप्तं वने नागं शरभो वारयेद्युधि ॥८-१८-४१॥
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा। पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ॥८-१८-४२॥
गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति। वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥८-१८-४३॥
तत्रावोचन्विमनसो रथिनः सादिनस्तथा। द्रोणस्य निधने नूनं सङ्क्रुद्धो द्विपदां वरः ॥८-१८-४४॥
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः। अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥८-१८-४५॥
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात्। अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥८-१८-४६॥
यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम्। गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ॥८-१८-४७॥
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि। अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ॥८-१८-४८॥
पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते। इत्येवं विविधा वाचस्तावकानां परैः सह ॥८-१८-४९॥
विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप। पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ॥८-१८-५०॥
स वध्यमानः समरे गौतमेन महात्मना। कर्तव्यं न प्रजानाति मोहितः परमाहवे ॥८-१८-५१॥
तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत। ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ॥८-१८-५२॥
दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः। प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ॥८-१८-५३॥
व्यावर्तये तत्र रथं नदीवेगमिवार्णवात्। अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥८-१८-५४॥
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः। मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ॥८-१८-५५॥
वेपथुं च शरीरे मे रोमहर्षं च पश्य वै। वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ॥८-१८-५६॥
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे। क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ॥८-१८-५७॥
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान्। यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥८-१८-५८॥
प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष। किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥८-१८-५९॥
शङ्खं च पूरयामास मुहुर्मुहुररिंदमः। पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ॥८-१८-६०॥
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम्। हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥८-१८-६१॥
शिखण्डी च समासाद्य हृदिकानां महारथम्। पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ॥८-१८-६२॥
कृतवर्मा तु सङ्क्रुद्धो भित्त्वा षष्टिभिराशुगैः। धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥८-१८-६३॥
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली। तिष्ठ तिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ॥८-१८-६४॥
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान्। प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥८-१८-६५॥
वितथांस्तान्समालक्ष्य पतितांश्च महीतले। क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ॥८-१८-६६॥
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्। अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ॥८-१८-६७॥
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः कृतविक्षतः। धनुरन्यत्समादाय समार्गणगणं प्रभो ॥ शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ॥८-१८-६८॥
स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह। शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ॥८-१८-६९॥
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ। अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥८-१८-७०॥
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ। रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥८-१८-७१॥
कृतवर्मा महाराज पार्षतं निशितैः शरैः। रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥८-१८-७२॥
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः। जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ॥८-१८-७३॥
स तेनाभिहतो राजन्मूर्छामाशु समाविशत्। ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥८-१८-७४॥
अपोवाह रणात्तं तु सारथी रथिनां वरम्। हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनः पुनः ॥८-१८-७५॥
पराजिते ततः शूरे द्रुपदस्य सुते प्रभो। प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ॥८-१८-७६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.