Mahabharata - Karna Parva (महाभारत - कर्णपर्वम्)
Death of Duhshasana in Kumbhakonam edition (08.085 to 87)
सञ्जय उवाच।
तमायान्तं महावेगैरश्वैः कपिवरध्वजम्। युद्धायाभ्यद्रवन्दीराः कुरूणां नवतीं रथाः॥ ८-८५-१
कृत्वा संशप्तका घोरं शपथं पारलौकिकम्। परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्॥ ८-८५-२
कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान्। मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति॥ ८-८५-३
प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम्। बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः॥ ८-८५-४
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्। जघान नवतिं वीरानर्जुनो निशितैः शरैः॥
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना। विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा॥
ततः सरथनागाश्वाः कुरवः कुरुसत्तमम्। निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्॥ ८-८५-७
तदायस्तमनुष्याश्वमुदीर्णवरवारणम्। पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम्॥
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः। प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम्॥ ८-८५-९
तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः। व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः॥ ८-८५-१०
ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः। पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात्॥ ८-८५-११
कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः। कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्॥ ८-८५-१२
तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः। चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः॥ ८-८५-१३
अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः। सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत्॥ ८-८५-१४
ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः। हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः॥ ८-८५-१५
ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते। स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्॥ ८-८५-१६
कुञ्चराश्च हता राजन्दद्रुवुस्ते समन्ततः। अश्वाश्च पर्यधावन्त हतारोहा दिशो दश॥ ८-८५-१७
रथा हीना नहाराज रथिभिर्वाजिभिस्तथा। गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः॥ ८-८५-१८
अश्वारोहा महाराज धावमाना इतस्ततः। तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः॥ ८-८५-१९
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत। यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि॥ ८-८५-२०
असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति। नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः॥ ८-८५-२१
ततस्त्र्येङ्गेण महता बलेन भरतर्षभ। दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्॥ ८-८५-२२
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्। जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति॥ ८-८५-२३
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्। दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति॥ ८-८५-२४
हतावशिष्टांस्तुरगानर्जुनेन महाबलः। भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे॥ ८-८५-२५
गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः। मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम्'॥ ८-८५-२६
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्। प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्॥ ८-८५-२७
गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत्। सा जघान बहूनश्वानश्वारोहांश्च मारिष॥ ८-८५-२८
कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः। पोथयामास गदया सशब्दं तेऽपतन्हताः॥ ८-८५-२९
दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः। भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः॥ ८-८५-३०
असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा। अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा॥ ८-८५-३१
सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः। भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः॥ ८-८५-३२
गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः। मेनिरे समनुप्राप्तं कालदण़्डोद्यतं यमम्॥ ८-८५-३३
स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः। प्रविवेश गजानीकं मकरः सागरं यथा॥ ८-८५-३४
विगाह्य च गजानीकं प्रगृह्य महतीं गदाम्। क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम्॥ ८-८५-३५
गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः। पततः समपश्याम सपक्षान्पर्वतानिव॥ ८-८५-३६
हत्वा तु तद्गजानीकं भीमसेनो महाबलः। पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात्॥ ८-८५-३७
ततः पराङ्मुखीभूतं निरुत्साहं बलं तव। तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम्॥ ८-८५-३८
विलम्बमानं तत्सैन्यभप्रगल्भमवस्थितम्। दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः॥ ८-८५-३९
नराश्वरथमातङ्गा युधि गाण्डीवधन्वना। शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः॥ ८-८५-४०
ततः कुरुणामभवदार्तनादो महान्नृप। नराश्वनागासुहनान्दृष्ट्वा बाणान्किरीटिनः॥ ८-८५-४१
हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम्। अलातचक्रवत्सैन्यं तदा बभ्राम तावकम्॥ ८-८५-४२
ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम्। न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः॥ ८-८५-४३
आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम्। आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते॥ ८-८५-४४
तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः। न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम्॥ ८-८५-४५
तत्राद्भुतमपश्याम कौरवाणां पराक्रमम्। वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ॥ ८-८५-४६
तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः। निराशाः समपद्यन्त सर्वे कर्णस्य जीविते॥ ८-८५-४७
अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे। मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना॥ ८-८५-४८
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः। प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम्॥ ८-८५-४९
तान्विद्रावयते पार्थः किरञ्शरशतान्बहून्। हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम्॥
पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति। अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा॥ ८-८५-५१
कुरवो हि महाराज निर्विषाः पन्नगा इव। कर्णमेवोपलीयन्त भयाद्गाण्डीवघन्वनः॥ ८-८५-५२
यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष। उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम्॥ ८-८५-५३
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप। उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः॥ ८-८५-५४
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्। मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः॥
सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम्। धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया॥ ८-८५-५६
तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः। सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन्॥ ८-८५-५७
विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः। पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः॥ ८-८५-५८
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः। शरौघैश्छादयामासुर्महामेघा इवाचलम्॥ ८-८५-५९
ततः शरसहस्राणि कर्णमुक्तानि मारिष। पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः॥ ८-८५-६०
महतासीत्तदा युद्धं पाञ्चालानां महामते। वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना॥ ॥ ८-८५-६१
सञ्जय उवाच।
ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन्। पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुमिर्वात इवाभ्रसङ्घान्॥ ८-८६-१
सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्य। शतानीकं सुतसोमं च भल्लै-- रवाकिरद्धनुषी चाप्यकृन्तत्॥ ८-८६-२
धृष्टद्युम्नं निर्बिभेदाथ षड्भि-- र्जघानाश्वान्दक्षिणांस्तस्य सङ्ख्ये। हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम्॥ ८-८६-३
तमभ्यधावन्निहते कुमारे सेनापतिः कैकयो मित्रवर्मा। शरैर्विधुन्वन्भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत्सुदेवम्॥ ८-८६-४
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रहस्य बाहू च शिरश्च कर्णः। स स्यन्दनाद्गामगमद्गतासुः परश्वथैः साल इवावरुग्णः॥ ८-८६-५
हताश्वमञ्जोगमिभिः सुषेणः शिनिप्रवीरं निशितैः पृषत्कैः। प्रच्छाद्य नृत्यन्निव कर्णपुत्रः शैनेयबाणाभिहतः पपात॥ ८-८६-६
पुत्रे हते क्रोधपरीतयेताः कर्णः शिनीनां प्रवरं जिघांसुः। हतोऽसि हे सात्यक इत्युदीर्य व्यवासृजद्बाणममित्रसाहम्॥
तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्। शिखण्डिनः कार्मुकं च ध्वजं च च्छित्त्वा क्षुराभ्यां न्यहनत्सुजातः॥ ८-८६-८
शिखण्डिनं षड्भिरविध्यदुग्रो धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त। ततोऽभिनत्सुतसोमं क्षुरेण सुसञ्झितेनाधिरथिर्महात्मा॥ ८-८६-९
अथाक्रन्दे तुमुले वर्तमाने धार्ष्टद्युम्ने निहते तत्र कृष्णः। अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीलाब्रवीद्राजसिंह॥ ८-८६-१०
ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम। भये तेषां त्राणमिच्छन्सुबाहु-- रभ्याहतानां रथयूथपेन॥ ८-८६-११
ततोऽपरे भारत दुष्प्रकम्प्याः पाञ्चालानां रथसङ्घाः समेताः। प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा धनुःप्रवीरास्तु रथप्रवीराः॥ ८-८६-१२
विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च। बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथध्वजांश्च॥ ८-८६-१३
प्रतिश्रुतः प्राचरदन्तरिक्षे गुहा गिरीणामपतन्वयांसि। यन्मण्डलज्येन विजृम्भमाणो रौद्रे मुहूर्तेऽभ्यपतत्किरीटी॥
तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरः। तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विषक्तौ॥ ८-८६-१५
तत्रान्तरे सुमहान्सूतपुत्र-- श्चक्रे युद्धं सोमकान्सम्प्रमथ्य। रथाश्वमातङ्गणाञ्जघान प्रच्छादयामास शरैर्दिशश्च॥ ८-८६-१६
तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च। कर्णं बिभेदुः सहिताः पृषत्कैः सन्नर्दमानाः सह पार्षतेन॥ ८-८६-१७
ते पञ्च पाञ्चालरथाः समेता वैकर्तनं कर्णमभिद्रवन्तः। तस्माद्रथाच्च्यावयितुं न शेकु-- र्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः॥ ८-८६-१८
तेषां धनूंषि ध्वजवाजिसूतां-- स्तूर्णं पताकाश्च निकृत्य बाणैः। तान्पाञ्चालानभ्यहनत्पृवत्कैः कर्णस्ततः सिंह इवोन्ननाद॥ ८-८६-१९
तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वेनन। साद्रिद्रुमा स्यात्पृथिवी विशीर्णे-- त्यतीव मत्वा जनता व्यपीदत्॥ ८-८६-२०
स शक्रचापप्रतिमेन धन्वना भृशायतेनाधिरथिः शरान्सृजन्। बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा॥ ८-८६-२१
शिखण्डिनं द्वादशभिः पराभिन-- च्छितैः शरैः षड्भिरथोत्तमौजसम्। त्रिभिर्युधामन्युमविध्यदाशुगै-- स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ॥ ८-८६-२२
पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष। निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियार्थात्मवता पराजिताः॥ ८-८६-२३
निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे। उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान्॥ ८-८६-२४
ततः शिनीनामृषभः शितैः शरै-- र्निकृत्य कर्णप्रहितानिषून्वहून्। विदार्य कर्णं निशितैरयस्मयै-- स्तवात्मजं ज्येष्ठमविध्यदष्टमिः॥ ८-८६-२५
कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत्। स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा॥ ८-८६-२६
समाततेनेष्वसनेन कूजता महास्वनेनाशनिपातदीधितिः। बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः॥ ८-८६-२७
पुनः समास्थाय रथान्सुदंशिताः शिनिप्रवीरं जुगुपुः परन्तपाः। समेत्य पाञ्चालमहारथा रणे मरुद्रणाः शक्रमिवारिनिग्रहे॥ ८-८६-२८
ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह। रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराऽभवत्॥ ८-८६-२९
रथा द्विपा वाजिपदातयस्तथा भ्रमन्ति नानाविधशस्त्रवेष्टिताः। परस्परेणाभिहताश्च चस्खलु-- र्विनेदुरार्ता व्यसवोऽपतंस्तथा॥ ८-८६-३०
तथागतं भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः। तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेदिवान्॥ ८-८६-३१
ततस्तयोर्युद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरं द्वयोः। परस्परेणाभिनिविष्टरोषयो-- रुदग्रयोः शम्बरशक्रयोर्यथा॥ ८-८६-३२
शरैः शरीरार्तिकरैः सुतेजनै-- र्निजघ्नतुस्तावितरेतरं भृशम्। सकृत्प्रभिन्नाविव वासितान्तरे महागजौ दोर्भिरदीनघातिनौ॥ ८-८६-३३
आलोक्य तौ चैव परस्परं ततः समं च शूरौ च ससारथी तदा। भीमोऽब्रवीद्याहि दुःशासनाय दुःशासनो याहि वृकोदराय॥ ८-८६-३४
तयो रथौ सारथिसम्प्रचोदितौ समं रथौ तौ महसा समीयतुः। नानायुधच्छत्रपताकिकाध्वजौ दिवीव पूर्वं बलशक्रयो रणे॥ ८-८६-३५
भीम उवाच।
दिष्ट्याऽसि दुःशासन अद्य दृष्टः क्षणं प्रतीच्छे सहवृद्धि मूलम्। चिरोदितं यन्मया ते सभायां कृष्णाभिमर्शेन गृहाण मत्तः॥ ८-८६-३६
स एवमुक्तस्तु ततो महात्मा दुःशासनो वाक्यमुवाच वीरः। सर्वं स्मरन्नेव विसंस्मरामि उदीर्यमाणं शृणु भीमसेन॥ ८-८६-३७
स्मरामि चात्मप्रभवं चिराय यज्जातुषे वेश्मनि रात्र्यहानि। विश्वासहीना मृगयां चरन्तो वसन्ति सर्वत्र निराकृतास्तु॥ ८-८६-३८
महाभयं रात्र्यहानि स्मरन्त-- स्तथोपभोगाच्च सुखाच्च हीनाः। वनेष्वटन्तो गिरिगह्वराणि पाञ्चालराजस्य पुरं प्रविष्टाः॥ ८-८६-३९
मायां यूयं कामपि सम्प्रविष्टा यतो वृतः कृष्णया फल्गुनो वः। संभूय पापैस्तदनार्यवृत्तं कृतं तदा मातृकृतानुरूपम्॥ ८-८६-४०
एका वृता पञ्चभिः साभिपन्ना। ह्यलज्जमानेश्च परस्परस्य। स्मरे सभायां सुबलात्मजेन दासीकृता यत्सह कृष्णया च॥ ८-८६-४१
सञ्जय उवाच।
इत्येवमुक्तस्तु तवात्मजेन पाण्डोः सुतः कोपवशं भृशं धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्। ललाटमप्यस्य बिभेद पत्रिणा ८-८६-४२
शिरश्च कायात्प्रजहार सारथेः॥ स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत्। स्वयं नियच्छंस्तुरगानजिह्मगैः ८-८६-४३
शरैश्च भीमं पुनरप्यवीवृषत्॥ ॥ ८-८६-४४
सञ्जय उवाच।
सर राजपुत्रेण समार्च्छदुग्र-- दुःशासनेन निकृतो निकृत्या॥ ८-८७-१
तत्राकरोद्दुष्करं राजपुत्रो दुःशासनः कुरुवीरो महात्मा। यद्भीमसेनं प्रतियोधयद्रणे जम्भो यथा शक्रमुदारवीर्यम्॥
धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये षड्भिः शरैः सारथिमभ्यविध्यत्। ततोऽविध्यत्त्रिंशता भीमसेनं वरेषुभिर्वन्यमिव द्विपेन्द्रम्॥ ८-८७-३
स कार्मुकं गृह्य तु भारसाधनं भीमस्तदा राजपुत्रं ह्यविध्यत्। पञ्चाशतैर्बाणगणैः स्तनानन्तरे तोत्रैर्यथा तीव्रवेगं द्विपेन्द्रम्॥ ८-८७-४
ततस्तु राजन्विरथं महात्मा दुःशासनो भीमसेनं चकार। निहत्य सङ्ख्ये चतुरोऽस्य बाहा-- ञ्छित्त्वा रथेषां पुनरेव चाक्षिपत्॥ ८-८७-५
ततः क्षितिस्वो ह्यबरुह्य याना-- द्वृकोदरो मदया तस्य वाहान्। यमक्षयं प्रेषयित्वा महात्मा रथं समाकर्पत राजसूनोः॥ ८-८७-६
तस्मादवप्लुत्य रथात्ससर्ज दुःशासनस्तोमरमुग्रवेगम्। स तेन विद्धो ह्युरसि ह्यप्रमेयो गदां तस्मै विससर्जाप्रमेयाम्॥
ततः क्रोधाद्भीमसेनः कृतानि सर्वाणि दुःखान्यनुसंस्मरन्वै। संस्मृत्य संस्मृत्य तथा प्रतिज्ञा-- मुग्रामसौ राजपुत्रौ व्यषीदत्॥ ८-८७-८
सञ्चिन्तितं रोषमतीव वेगा- त्त्रयोदशाब्दं पुरुषप्रवीरः। प्रगृह्य वज्राशनितुल्यवेगां गदां करेणाथ वृकोदरो रुषा॥
निपातयित्वा पृथिवीतले भृशं स ताजयामा वृकोदरो बली। अतीव सन्ताडितभिन्नगात्रो दुःशासनो वै निपपात भूमौ॥ ८-८७-१०
आक्रम्य कण्ठे युधि राजपुत्रं संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम्। तद्ब्रूहि किं त्वं परिमार्गमाणो ह्यस्मान्पराभूय इहागतः पुनः॥ ८-८७-११
दिदीपयंस्तद्भृशदीपितं मे चिरार्जितं रोषमतिप्रदीप्तम्। मधु प्रपास्ये तव कोष्टभाजना-- दित्यब्रवीद्भीमसेनस्तरस्वी॥ ८-८७-१२
दुःशासनं कण्ठदेशे प्रमृद्रं-- स्ततः क्रूरं भीमसेनश्चकार। कतं व्यंसयित्वा सहसा ससार बलादसौ धार्तराष्ट्रस्तरस्वी॥ ८-८७-१३
भीमोऽभिदुद्राव सुतं त्वदीयं सपत्रतां दर्शयन्धार्तराष्ट्रे। मृगं मुहुः सिंहशिशुर्यथा वने तथाश्वभिद्रुत्य महाबलं बली॥ ८-८७-१४
निगृह्य चैनं परमेण कर्मणा उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम्। भूमौ तदा निष्पिपेषाथ वीर असिं विकोशं विमलं चकार॥ ८-८७-१५
तं पातयित्वा तु वृकोदरोऽथ जगर्ज हर्षेण विनादयन्दिशः। नादेन तेनाखिलपार्श्ववर्तिनो मूर्च्छाकुलाः पतितास्त्वाजमीढ॥ ८-८७-१६
दुःशासनं तत्र समीक्ष्य राज-- न्भीमो महाबाहुरचिन्त्यकर्मा। स्मृत्वा च केशग्रहणं च देव्या वस्त्रापहारं च रजस्वलायाः॥ ८-८७-१७
अनागसो भर्तृपराङ्मुखाया दुःखानि दत्तान्यपि विप्रचिन्त्या। जज्वाल कोपादथ भीमसेन आज्यप्रसिक्तो हि यथा हुताशः॥
तत्राह कर्णं च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव। निहन्मि दुःशासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः॥ ८-८७-१९
इत्येवमुक्त्वा सहसाभ्यधाव-- न्निहन्तुकामोऽतिबलस्तरस्वी। तथा तु विक्रम्य रमे वृकोदरो महागजं केसरिको यथैव। निगृह्य दुःशासनमेकवीरः सुयोधनस्याधिरथेः समक्षम्॥ ८-८७-२०
असिं समुद्यम्य सितं सुधारं कण्ठे पदाक्रम्य च वेपमानम्। उवाच तद्गौरिति यद्ब्रुवाणो हृष्टोऽवदः कर्णसुयोधनाभ्याम्॥ ८-८७-२१
ये राजसूयावभृथे पवित्रा जाताः कछा याज्ञसेन्या दुरात्मन्। ते पाणिना कतरेणावकृष्टा-- स्तद्ब्रूहि त्वां पृच्छति भीमसेनः॥ ८-८७-२२
श्रुत्वा तु तद्भीमवचः सुघोरं दुःशासनो भीमसेनं निरीक्ष्य। जज्वाल बीमं स तदा स्मयेन संशृण्वतां कौरवसोमकानाम्। उक्तस्तदाजौ स तथा सरोषं जगाद भीमं परिवृत्तनेत्रः॥ ८-८७-२३
अयं करिकराकारः पीनस्तनविमर्दनः। गोसहस्रप्रदाता च क्षत्रियान्तकरः करः॥ ८-८७-२४
अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः। पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम्॥ ८-८७-२५
एवं त्वसौ राजसुतं निशम्य ब्रुवन्तमाजौ विनिपीड्य वक्षः। भीमो बलात्तं प्रतिगृह्य दोर्भ्या-- मुच्चैर्ननादाथ समस्तयोधान्॥ ८-८७-२६
उवाच यस्यास्ति बलं स रक्ष-- त्वसौ भवेदद्य निरस्तबाहुः। दुःशानं जीवितं प्रोत्सृजन्त-- माक्षिप्य योधांस्तरसा महाबलः॥ ८-८७-२७
एवं क्रुद्धो भीमसेनः करेण उत्पाटयामास भुजं महात्मा। दुःशासनं तेन स वीरमध्ये जघान वज्राशनिसन्निभेन॥ ८-८७-२८
कण्ठे समाक्रम्य च वेपमानं कृत्वाऽनु रूपं परमं सुघोरम्। कालान्तकाभ्यां सदृशं तदानीं विदार्य वक्षश्च महारथस्य॥ ८-८७-२९
दुःशासनस्य निपुशासनस्य उद्धृत्य वक्षः पतितस्य भूमौ। ततोऽपिबच्छोणितमस्य कोष्ण-- मास्वाद्य चास्वाद्य च वीक्षमाणः॥ ८-८७-३०
क्रुद्धः प्रहृष्टो निजगाद वाक्यं स्तन्यस्य मातुः पयसोऽमृतस्य। माध्वीकजस्येव रसस्य तस्य मधोश्च पानाद्यवकस्य पानात्॥ ८-८७-३१
पयोदधिभ्यां मथिताच्च मुख्या-- त्तथेक्षुसारस्य मनोहरस्य। सर्वेभ्य एवाभ्यधिको रसोऽस्य मतो ममाद्याहितलोहितस्य॥ ८-८७-३२
एवं ब्रुवाणं पुनरुत्थितं त-- मास्फोट्य वल्गन्तमतिप्रहृष्टम्। ये भीमसेनं ददृशुस्तदानीं प्रायेण तेऽपि व्यथिता निपेतुः॥ ८-८७-३३
ये चापि नासन्पतिता मनुष्या-- स्तेषां करेभ्यः पतितं तु शस्त्रम्। भयाच्च सञ्चुक्रुशुरस्वरैस्तदा निमीलिताक्षा मुमुहुश्च तत्र॥ ८-८७-३४
ये तत्र भीमं रुधिरं पिबन्तं दुःशासनस्य ददृशुः प्रपन्नाः। नायं मनुष्यस्त्विति भाषमाणाः सर्वेऽपलायन्त भयाभिपन्नाः॥ ॥ ८-८७-३५

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.